|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.33. अध्यायः 033
Mahabharata - Vana Parva - Chapter Topics
भीमेन युधिष्ठिरंप्रति नीतिव्युत्पादनपूर्वकं युद्धेन राज्याहरणकर्तव्यत्वोक्तिः ॥ 1 ॥
Mahabharata - Vana Parva - Chapter Text
वैशम्पायन उवाच। 3-33-0x(1859)(16931)
याज्ञसेन्या वचः श्रुत्वा भीमसेनो ह्यमर्षणः।
निश्वसन्नुपसंगम्य क्रुद्धो राजानमब्रवीत् ॥ 3-33-1(16932)
राजन्सत्पदवीं धर्म्यां व्रज सत्पुरुषोचिताम्।
धर्मकामार्थहीनानां किं नो वस्तुं तपोवने ॥ 3-33-2(16933)
नैव धर्मेण तद्राज्यं नार्जवेण न चौजसा।
अक्षकूटमधिष्ठाय हृतं दुर्योधनेन वै ॥ 3-33-3(16934)
गोमायुनेव सिंहानां दिर्बलेन बलीयसाम्।
आमिपं विघसाशेन तद्वद्राज्यं हि नो हृतम् ॥ 3-33-4(16935)
धर्मलेशप्रतिच्छन्नः प्रभवं धर्मकामयोः।
अर्थमुत्सृज्य किं राजन्दुःखेन परितप्यसे ॥ 3-33-5(16936)
भवतोऽनुविधानेन राज्यं नः पश्यतां हृतम्।
अहार्यमपि शक्रेण गुप्तं गाण्डीवधन्वना ॥ 3-33-6(16937)
कुणीनामिव बिल्वानि पङ्गूनामिव धेनवः।
हृतमैश्वर्यमस्माकं जीवतां भवतः कृते ॥ 3-33-7(16938)
भवतः प्रियमित्येवं महद्व्यसनमीदृशम्।
धर्मकामे प्रतीतस्य प्रतिपन्नाः स्म भारत ॥ 3-33-8(16939)
कर्शयामः स्वमित्राणि नन्दयामश्च शात्रवान्।
आत्मानं भवतः शास्त्रैर्नियम्य भरतर्षभ ॥ 3-33-9(16940)
यद्वयं न तदैवैतान्धार्तराष्ट्रान्निहन्म हि।
भवतः शास्त्रमादाय तन्नस्तपति दुष्कृतम् ॥ 3-33-10(16941)
अथैनामन्ववेक्षस्व मृगचर्यामिवात्मनः।
अवीराचरितां राजन्नबलस्थैर्निषेविताम् ॥ 3-33-11(16942)
यां न कृष्णो न बीभत्सुर्नाभिमन्युर्न सृञ्जयाः।
न चाहमभिनन्दामि न च माद्रीसुतावुभौ ॥ 3-33-12(16943)
भवान्धर्मो धर्म इति सततं व्रतकर्शितः।
कच्चिद्राजन्न निर्वेदादापन्नः क्लीबजीविकाम् ॥ 3-33-13(16944)
दुर्मनुष्या हि निर्वेदमफलं सर्वघातकम्।
अशक्ताः श्रियमाहर्तुमात्मनः कुर्वते प्रियम् ॥ 3-33-14(16945)
स भवान्दृष्टिमाञ्शक्तः पश्यन्नस्मासु पौरुषम्।
आनृशंस्यपरो राजन्नात्मार्थमवबुध्यसे ॥ 3-33-15(16946)
अस्मानमी धार्तराष्ट्राः क्षममाणानहिंसतः।
अशक्तानेव मन्यन्ते तद्दुःखं नाहवे वधः ॥ 3-33-16(16947)
तत्रचेद्युध्यमानानामजिह्ममनिवर्तिनाम्।
सर्वशो हि वधः श्रेयान्प्रेत्य लोकांल्लभेमहि ॥ 3-33-17(16948)
अधवा वयमेवैतान्निहत्य भरतर्षभ।
आददीमहि गां सर्वां तथापि श्रेय एव नः ॥ 3-33-18(16949)
सर्वथा कार्यमेतन्नः स्वधर्ममनुतिष्ठताम्।
काङ्खतां विषुलां कीर्ति वैरं प्रतिचिकीर्षताम् ॥ 3-33-19(16950)
आत्मार्थं युध्यमानानां जीविते कृत्यलक्षणे।
अन्यैरपि हृते राज्ये प्रशंसैव न गर्हणा ॥ 3-33-20(16951)
कर्शनार्थो हि यो धर्मो विप्राणामात्मनस्तथा।
व्यसनं नाम तद्राजन्न धर्मः स कुवर्त्मतत् ॥ 3-33-21(16952)
सर्वथा धर्मनित्यं तु पुरुषं धर्मदुर्बलम्।
जहतस्तात धर्मार्थौ प्रेतं दुःखसुखे यथा ॥ 3-33-22(16953)
यस्य धर्मो हि धर्मार्थँ क्लेशभाङ्ग स पण्डितः।
न स धर्मस्य वेदार्थं सूर्यस्यान्धः प्रभामिव ॥ 3-33-23(16954)
यस्य चार्थार्थ एवार्थः स च नार्थस्य कोविदः।
रक्ष्यते भृतकः पुण्यं यथा स्यात्तादृगेव सः ॥ 3-33-24(16955)
अतिवेलं हि योऽर्थार्थी नेतरावनुतिष्ठति।
स वध्यः सर्वभूतानां ब्रह्महेव जुगुप्सितः ॥ 3-33-25(16956)
सततं यश्च कामार्थी नेतरावनुतिष्ठति।
मित्राणि तस्य नश्यन्ति धर्मार्थाभ्यां च हीयते ॥ 3-33-26(16957)
तस्य धर्मार्थहीनस्य कामान्ते निधनं ध्रुवम्।
कामतो रममाणस्य मीनस्येवाम्भसः क्षये ॥ 3-33-27(16958)
तस्माद्धर्मार्थयोर्नित्यं न प्रमान्द्यन्ति पण्डिताः।
प्रकृतिः सा हि कामस्य पावकस्यारणिर्यथा ॥ 3-33-28(16959)
सर्वथा धर्ममूलोऽर्थो धर्मश्चार्थपरिग्रहः।
इतरेतरयोर्नीतौ विद्धि मेघोदधी यथा ॥ 3-33-29(16960)
द्रव्यार्थस्पर्शसंयोगे या प्रीतिरुपजायते।
स कामश्चित्तसंकल्पः शरीरं नास्य दृश्यते ॥ 3-33-30(16961)
अर्थार्थी पुरुषो राजन्बृहन्तं धर्ममिच्छति।
अर्थमिच्छति कामार्थीन कामादन्यमिच्छति ॥ 3-33-31(16962)
न हि कामेन कामोऽन्यः सिध्यते फलमेव तत्।
उषयोगात्फलस्यैव काष्ठाद्भस्मेव पण्डितः ॥ 3-33-32(16963)
इमाञ्शकुनकान्राजन्हन्ति वैतंसिको यथा।
एतद्रूपमधर्मस्य भूतेषु च विहिंसनम् ॥ 3-33-33(16964)
कामाल्लोभाच्च धर्मस्य प्रवृत्तिं यो न पश्ति।
स वध्यः सर्वभूतानां प्रेत्य चेहैच दुर्मतिः ॥ 3-33-34(16965)
व्यक्तं ते विदितो राजन्नर्थो द्रव्यपरिग्रहः।
प्रकृतिं चापि वेत्थास्य विकृतिं चापि भूयसीम् ॥ 3-33-35(16966)
तस्य नाशं विनाशं वा जरया मरणेन वा।
अनर्थ इति मन्यन्ते सोयमस्मासु वर्तते ॥ 3-33-36(16967)
इन्द्रियाणां च पञ्चानां मनसो हृदयस्य च।
विपये वर्तमानानां या प्रीतिरुपजायते ॥ 3-33-37(16968)
स काम इति मे बुद्धिः कर्मणां फलमुत्तमम्।
एवमेव पृथग्दृष्ट्वा धर्मार्थौ काममेव च ॥ 3-33-38(16969)
न धर्मपर एव स्यान्न चार्थपरमो नरः।
न कामपरमो वा स्यात्सर्वान्सेवेत सर्वदा ॥ 3-33-39(16970)
धर्मं पूर्वे धनं मध्ये जघन्ये काममाचरेत्।
अहन्यनुचरेदेवमेष शास्त्रकृतो विधिः ॥ 3-33-40(16971)
कामं पूर्वे धनं मध्ये जघन्ये धर्ममाचरेत्।
वयस्यनुचरेदेवमेष शास्त्रकृतो विधिः ॥ 3-33-41(16972)
धर्मं चार्थं च कामं च यथावद्वदतांवर।
विभज्य काले कालज्ञः सर्वान्सेवेत पण्डितः ॥ 3-33-42(16973)
मोक्षो वा परमं श्रेय एष राजन्सुखार्थिनाम्।
प्राप्तिं वा बुद्धिमास्थाय सोपायां कुरुनन्दन ॥ 3-33-43(16974)
तद्वाऽऽशु क्रियतां राजन्प्राप्तिर्वाप्यधिगम्यताम्।
जीवितं ह्यातुरस्येव दुःखमन्तरवर्तिनः ॥ 3-33-44(16975)
विदितश्चैव मे धर्मः सततं चरितश्च ते।
जानन्तस्त्वयि शंसन्ति सुहृदः कर्मचोदनाम् ॥ 3-33-45(16976)
दानं यज्ञाः सतां पूजा वेदधारणमार्जवम्।
एष धर्मः परो राजन्फलवान्प्रेत्य चेंह च ॥ 3-33-46(16977)
एष नार्थविहीनेन शक्यो राजन्निपेवितुम्।
अखिलाः पुरुषव्याघ्र गुणाः स्युर्यद्यपीनरे ॥ 3-33-47(16978)
धर्ममूलं जगद्राजन्नान्यद्धर्माद्विशिष्यते।
धर्मश्चार्थेन महता शक्यो राजन्निषेवितुम् ॥ 3-33-48(16979)
न चार्थो भैक्ष्यचर्येण नापि क्लैब्येन कर्हिचित्।
वेत्तुं शक्यस्तथा राजन्केवलं धर्मबुद्धिना ॥ 3-33-49(16980)
प्रतिष्द्धा हि ते याच्ञा यया सिध्यति वै द्विजः।
तेजसैवार्थलिप्सायां यतस्व पुरुषर्षभ ॥ 3-33-50(16981)
भैक्ष्यचर्या न विहिता न च विट्शूद्रजीविका।
क्षत्रियस् विशेषेण धर्मस्तु बलमौरसम् ॥ 3-33-51(16982)
स्वधर्मं प्रतिपद्यस्व जहि शत्रून्समागतान्।
धार्तराष्ट्रवनं पार्थ मया पार्थेन नाशय ॥ 3-33-52(16983)
उदारमेव विद्वांसो धर्मं प्राहुर्मनीषिणः।
उदारं प्रतिपद्यस्व नावरे स्थातुमर्हसि ॥ 3-33-53(16984)
अनुबुध्यस्व राजेन्द्र वेत्थ धर्मान्सनातनान्।
क्रूरकर्माऽभिजातोसि यस्मादुद्विजते जनः ॥ 3-33-54(16985)
प्रजापालनसंभूतं फलं तव न गर्हितम्।
एष ते विहितो राजन्धात्रा धर्मः सनातनः ॥ 3-33-55(16986)
तस्माद्विचलितः पार्थ लोके हास्यं गमिष्यसि।
स्वधर्माद्धि मनुष्याणां चलनं न प्रशस्यते ॥ 3-33-56(16987)
स क्षात्रं हृदयं कृत्वा त्यक्त्वेदं शिथिलं मनः।
वीर्यमास्थाय कौरव्य धुरमुद्वह धुर्यवत् ॥ 3-33-57(16988)
न हि केवलधर्मात्मा पृथिवीं जातु कश्चन।
पार्थिवो व्यजयद्राजन्न भूतिं न पुनः श्रियम् ॥ 3-33-58(16989)
जिह्वां दत्ता बहूनां हि क्षुद्राणां लुब्धचेतसाम्।
निकृत्या लभते राज्यमाहारमिव शल्यकः ॥ 3-33-59(16990)
भ्रातर पूर्वजाताश्च सुसमृद्धाश्च सर्वशः।
निकृत्या निर्जिता देवैरसुराः पाण्डवर्षभ ॥ 3-33-60(16991)
एवं बलवतः सर्वमिति बुद्ध्वा महीपते।
जहि शत्रून्महाबाहो परां निकृतिमास्थितान् ॥ 3-33-61(16992)
न ह्यर्जुनसमः कश्चिद्युधि योद्धा धनुर्धरः।
भविता वा पुमान्कश्चिन्मत्समो वा गदाधरः ॥ 3-33-62(16993)
सत्वेन कुरुते युद्धं राजन्सुबलवानपि।
न प्रमाणेन नोत्साहात्सत्वस्थो भव पाण्डव ॥ 3-33-63(16994)
सत्वं हि मूलमर्थस् यवितथं यदतोऽन्यथा।
न तु प्रसक्तं भवति वृक्षच्छायेन हैमनी ॥ 3-33-64(16995)
अर्थत्यागोऽपि कार्यः स्यादर्थं श्रेयांसमिच्छता।
बीजौपम्यन कौन्तेय मा ते भूदत्र संशयः ॥ 3-33-65(16996)
अर्थेन तु समोऽनर्थो यत्र लब्धो महोदयः।
न तत्र विपणः कार्यः खरकण्डूयनं हि तत् ॥ 3-33-66(16997)
एवमेव मनुष्येन्द्र धर्मं त्यक्त्वाऽल्पकं नरः।
बृहन्तं धर्ममाप्नोति स बुद्ध इति निश्चितम् ॥ 3-33-67(16998)
अमित्रं मित्रसंपन्नं मित्रैर्भिन्दन्ति पण्डितः॥ 3-33-68(16999)
भिन्नैर्मित्रैः परित्यक्तं दुर्बलं कुरुते वशे ॥ 3-33-68(17000)
सत्वेन कुरुते युद्धं राजन्सुबलवानपि।
नोद्यमेन न होत्राभिः सर्वाः स्वीकुरुते प्रजाः ॥ 3-33-69(17001)
सर्वथा संहतैरेव दुर्बलैर्बलवानपि।
अमित्रः शक्यते हन्तुं मधुहा भ्रमरैरिव ॥ 3-33-70(17002)
यथा राजन्प्रजाः सर्वाः सूर्यः पाति गभस्तिभिः।
हन्ति चैव तथैव त्वं सदृशः सवितुर्भव ॥ 3-33-71(17003)
एतच्चापि तपो पाजन्पुराणमिति नः श्रुतम्।
विधिना पालनं भूमेर्यत्कृतं नः पितामहैः ॥ 3-33-72(17004)
न तथा तपसा राजँल्लोकान्प्राप्नोति क्षत्रियः।
यथा सृष्टेन युद्धेन विजयेनेतरेण वा ॥ 3-33-73(17005)
अपेयात्किल भा सूर्याल्लक्ष्मीश्चन्द्रमसस्तथा।
इतिलोको व्यवसितो दृष्ट्वेमां भवतोव्यथाम् ॥ 3-33-74(17006)
भवतश्च प्रशंसाभिर्निन्दाभिरितरस्य च।
कथयन्त्यः परिषदः पृथग्राजन्समागताः ॥ 3-33-75(17007)
इदमभ्यधिकं राजन्ब्राह्मणाः कुरवश्च ते।
समेताः कथयन्तीह मुदिताः सत्यसन्धताम् ॥ 3-33-76(17008)
यन्न मोहान्न कार्पण्यान्न लोभान्न भयादपि।
अनृतं किंचिदुक्तं ते न कामान्नार्थकारणात् ॥ 3-33-77(17009)
यदेनः कुरुते किंचिद्राजा भूमिमवाप्नुवन्।
सर्वं तन्नुदते पश्चाद्यज्ञैर्विपुलदक्षिणैः ॥ 3-33-78(17010)
ब्राह्मणेभ्यो ददद्ग्रामान्गाश्च राजन्सहस्रशः।
मुच्यते वीर पापेभ्यस्तमोभ्य इव चन्द्रमाः ॥ 3-33-79(17011)
पौरजानपदाः सर्वे प्रायशः कुरुनन्दन।
सवृद्धबालाः सहिताः शंसन्ति त्वां युधिष्ठिर ॥ 3-33-80(17012)
श्वदृतौ क्षीरमासक्तं ब्रह्म वा वृषले यथा।
सत्यं स्तेने बलं नार्यां राज्यं दुर्योधने तथा ॥ 3-33-81(17013)
इतिलोके निर्वचनं पुरश्चरति भारत।
अपि चैताः स्त्रियो बालाः स्वाध्यायमधिकुर्वते ॥ 3-33-82(17014)
इमामवस्थां च गते सहास्माभिररिंदम्।
हन्त नष्टाः स्म सर्वे वै भवतोपद्रवे सति ॥ 3-33-83(17015)
स भवान्रथमास्थाय सर्वोपकरणान्वितम्।
त्वरमाणोऽभिनिर्यातु विप्रेभ्योऽर्थविभावकः ॥ 3-33-84(17016)
वाचयित्वा द्विजश्रेष्ठानद्यैव गजसाह्वयम्।
अस्त्रविद्भिः परिवृतोभ्रातृभिर्दृढधन्विभिः ॥ 3-33-85(17017)
आशीविषसमैर्वीरैर्मरुद्भिरिव वृत्रहा।
अमित्रांस्तेजसा मृद्गन्नसुरानिव वृत्रहा।
श्रियमादत्स्व कौन्तेय धार्तराष्ट्रान्महाबल ॥ 3-33-86(17018)
न हि गाण्डीवमुक्तानां शराणां गार्ध्रवाससाम्।
स्पर्शमाशीविषाभानां मर्त्यः कश्चन संसहेत् ॥ 3-33-87(17019)
न स वीरो न मातङ्गो न च सोऽश्वोस्ति भारत।
यः सहेत गदावेगं मम क्रुद्धस्य संयुगे ॥ 3-33-88(17020)
सृञ्जयैः सहकैकेयैर्वृष्णीनां वृषभेण च।
कथंस्विद्युधि कौन्तेय न राज्यं प्राप्नुयामहे ॥ 3-33-89(17021)
शत्रुहस्तगतां राजन्कथंस्विन्नाहरेर्महीम्।
इह यत्नमुपाहृत्य बलेन महताऽन्वितः ॥ 3-33-90(17022)
इति श्रीमन्महाभारते अरण्यपर्वणि अर्जुनाभिगमनपर्वणि त्रयस्त्रिंशोऽध्यायः ॥ 33 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-33-2 किंप्रयोजनमिति शेषः। राज्यस्यपदवीमिति झ.ठ. पाठः. ॥ 3-33-3 कूटं कपटम् ॥ 3-33-4 विघसो भूतबलिशेषः श्वकाकादियोग्यस्तद्भक्षकेण शुनकेनेत्यर्थः ॥ 3-33-5 धर्मलेशः प्रतिज्ञापालनजस्तेन प्रतिच्छन्न आवृतः। अर्थं राज्याख्यम् ॥ 3-33-7 कुणीनां हस्तविकलानाम्। पङ्गूनां पादविकलानाम्। अनादरे षष्ठी ॥ 3-33-8 धर्मकामे धर्मेच्छायाम्। प्रतीतस्य विश्वस्तस्य ॥ 3-33-9 शास्त्रैः शमवचनैः। न जयामः स्मशात्रवानिति क. ध. पाठः ॥ 3-33-11 मृगचर्यामिव। एनां वनचर्याम्। बलस्थैर्न निषेवितां बलवद्भिरसेवितामित्यर्थः ॥ 3-33-13 न आपन्न इति संबन्धः ॥ 3-33-18 गां पृथिवीम् ॥ 3-33-20 कृत्यलक्षणे करणीयस्वरूपे ॥ 3-33-21 कुधर्मतत् इति पाठे कुधर्मं तनोतीति कुधर्मतत् कुधर्मबीजमित्यर्थः ॥ 3-33-22 धर्मार्थौ बलसाध्यहेमन्तप्रातःस्नानशत्रुजयसंभवौ ॥ 3-33-23 धर्मार्थे नत्वर्थकामार्थम्। अर्थं प्रयोजनम् ॥ 3-33-24 यस्य चात्पार्थमेवार्थ इति झ. पाठः ॥ 3-33-25 अतिवेलप्रत्यन्तम् ॥ 3-33-28 साहि धर्मार्थरूपाहि ॥ 3-33-29 अर्थपरिग्रहोऽर्थार्थमेवालम्बनीयः। इतरेतरयोर्नीतौ। धर्मादर्थः प्रणीयतेऽर्थाच्च धर्म इत्यर्थः। मेघादुदधिपुष्टिरुदधेर्मेघपूर्तिरिव ॥ 3-33-30 द्रव्यस्य स्रक्रचन्दनादेः स्पर्शः। अर्थस्य स्वर्णादेः संयोगो लाभः ॥ 3-33-31 न कामादर्थमृच्छतीति क. ध. पाठः ॥ 3-33-32 साव्यते फलमेव तदिति झ. पाठः. उपयोगः साक्षात्प्रीत्युत्पादनेन कृतार्थत्वम्। काष्ठाद्भस्म साध्यं नतु भस्मतोपि भस्मान्तरे साध्यमस्ति तद्वत् ॥ 3-33-33 वैतंसिको वीतंसेन जीवतीति पक्षिहन्ता। वीतंसं बन्धनोपाये मृगाणां पक्षिणामपीति विश्वः ॥ 3-33-40 धर्मं पूर्वे अहनि चरेत् ॥ 3-33-41 कामं पूर्वेवयसि चरेत् ॥ 3-33-44 प्राप्तिर्महोदयो वा राज्यलाभजः तन्मोक्षाख्यं श्रेयः। दुःखं दुःखदम् ॥ 3-33-45 कर्मचोदनां प्रवृत्तिजनकं वेदवाक्यं शंसन्ति कथयन्ति ॥ 3-33-49 क्लैब्येन कातर्येण। वेत्तुं लब्धुम् ॥ 3-33-50 द्विजः ब्राह्मणः ॥ 3-33-51 औरसं उत्साहः ॥ 3-33-53 उदारं ईश्वरभावम्। अवरे अनैश्वर्ये ॥ 3-33-54 क्रूरं हिंसात्मकं क्षात्रं कर्म यस्य ॥ 3-33-59 जिह्वां जिह्वायाः प्रियं साध्वन्नं उत्कोचमित्यर्थः। क्षुद्राणां शत्रुपक्षीयाणाम्। निकृत्या भेदरूपेण छलेन। शल्यकः व्याधः। स हि मृगेभ्यो भक्ष्यं दत्त्वा विश्वास्य हत्वा आहारं लभते तद्वत् ॥ 3-33-63 सत्वेन बलेन। प्रमाणेन संधेन। उत्साहेन शत्रुपक्षीयैः सह संधानलक्षणेन ॥ 3-33-67 एवमेव बीजौपम्येन ॥ 3-33-69 होत्राभिः सान्त्वेन आह्वानैः ॥ 3-33-70 संहतैर्मिलितैः। मधुहा मध्वर्थं गतः। ओहाङ्गतौ इत्यस्य रूपम्। कालप्रतीक्षायां हि शत्रुर्बलवान् भूत्वाऽस्मान् जेष्यतीति भावः ॥ 3-33-71 हन्ति रसशोषणेन। पाति वर्षेण ॥ 3-33-72 पुराणं अनादि ॥ 3-33-73 इतरेण मरणेन ॥ 3-33-74 अपेयात् अपगच्छेत्। व्यवसितः निश्चितः ॥ 3-33-78 एनः पापम्। अवाप्नुवन् अवाप्तिहेतोः ॥ 3-33-81 श्वदृतौ सारमेयचर्मकोशे। ब्रह्म वेदः। वृषले शूद्रे ॥ 3-33-82 स्वाध्यायमधिकुर्वतेश्वदृताविति श्लोकं वेदवत् स्त्र्यादयो नित्यं पठन्तीत्यर्तः ॥ 3-33-83 भवता हेतुना। उपद्रवे राज्यभ्रंशे ॥ 3-33-84 अर्थविभावको जयार्जितामर्थं प्रदातुम् ॥ 3-33-85 वाचयित्वा आशीर्वादान् ॥ 3-33-86 धार्तराष्ट्रादिति च्छेदः ॥ 3-33-90 उपाहृत्य आलम्ब्य ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|